परिचयः

''संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः।''

संस्कृतभाषा भारतस्यामूल्यो निधिरस्ति। अनादिकालतोऽस्माकं देशस्य राष्ट्रियजीवने तस्या अपरिमितप्रभवो विद्यते। समस्तमपि भारतीयं साहित्यं संस्कृतिजातं च तस्यां पूर्णतया अनुप्राणितमस्ति। देववाणीपदविभूषितं संस्कृतमधुनापि भारतीयजनताहृदये श्रद्धाभावं जनयति। सबलमिदं वक्तुं शक्यते यत् अद्यापि संस्कृतं ग्रीकभाषापेक्षया लैटिनभाषापेक्षया अधिकं सजीवमस्ति। आड्ग्लापेक्षया संस्कृतमस्माकं भारतीयानां जीवनमधिकं संस्पृशति। धार्मिकं जीवनं नः प्रबलमुदारणमस्त्येव। संस्कृतमेका भाषा वर्तते। अस्यां शताब्दिपर्यन्तं दर्शनं साहित्यं ललितकलाः नीतिशास्त्रं रसायनं पदार्थशास्त्रं गणितम् अन्तरिक्षविज्ञानं कृषिरिति विषयेषु लेखनम् अध्ययनम् अध्यापनं चिन्तनं च क्रियमाणस्ति। ज्ञानवैभवमिदमद्यापि समुपलभ्यते संस्कृते। वेदानाम् उपनिषदां महाभारतस्य गीताया भागवतस्य अद्यापि देशे व्यापकोऽस्ति प्रचारः। अस्माकं देवालयानां स्वरूपं निर्माणप्रक्रियाः तीर्थस्थलानां परिचयोऽस्यामेव भाषायां प्राप्यन्ते। अस्माकं जातकर्मोपनयन- विवाहादि- समस्तसंस्कारा अन्येऽगणितधार्मिककृत्यानि संस्कृत एव सुसम्पन्नानि भवन्ति। भवतु संस्कृतस्य आपणेऽभावः, न्यायालये विपुलप्रयोगाभावो वा, परन्तु इयमस्माकं सांस्कृतिकभाषा वर्तते। अस्माकं विशिष्टं साहित्यमस्यामेव विलिखितमस्ति। जैनानामधिकांशतो ग्रन्थाः संस्कृते प्राकृते रचिताः सन्ति। बौद्धैरपि पालिभाषायां संस्कृते च स्वग्रन्था रचिता। व्यावहारिके सामाजिके जीवने तस्य प्रत्यक्षं प्रभावो लक्ष्यते। प्रायशाः प्रादेशिकभाषाणामस्ति जननी संस्कृतभाषेति। हिन्दूविधेर्मूलभित्तिभूताः स्मृतयः संस्कृत एव रचिता विलसन्ति। संस्कृते लिखिता आयुर्वेदग्रन्थाः ज्योतिषशास्त्राणि च असंख्यानां ज्ञानस्य जीविकोपार्जनस्य मार्गभूतानि भवन्ति अगणितानां दीनानां दुःखिनां च सुखसाधनानि वर्तन्ते। सन्तप्तमानवोऽद्यापि पुराण-कर्मकाण्डमाध्यमेन आत्मकल्याणाय चेष्टानिरतो दृश्यते। विभिन्नसंस्कृतसाहित्यं जीवितं साहित्यमस्ति तथा अन्येभ्योऽपि जीवनप्रदाने क्षमन्ते। साहित्यस्य अनेनैव औत्कृष्ट्येन जर्मनीफ्रांस-इटली-इंग्लैण्ड-अमेरिकादिपाश्चात्यदेशीयमनीषिण आकृष्टाः सन्ति। विगतशतवर्षेषु एभिः विदेशिविद्वभिः संस्कृतवाड्मयस्य यदनुशीलनमनुसन्धानं कृतमस्ति, तेन संसारस्य सम्मुखमस्य साहित्यं महत्त्वं पूर्णतया प्रतिष्ठाप्य तदध्ययनस्य अजस्रधारा प्रवाहिता वर्तते।

भारतीयसंस्कृतिमविज्ञातुं संस्कृतस्य ज्ञानमावश्यकमस्ति। प्राचीनं भारतीयेतिहासस्य सम्यक्पर्यालोचनं संस्कृतसाहित्याध्ययनं विना नैव भवितुमर्हति। प्रायः सर्वेऽपि प्राचीनशिलालेखाः संस्कृत एव विद्यन्ते। भारतीयपुरातत्वस्य सम्यक्पर्यालोचनं संस्कृतसाहित्याध्ययनं विना नैव भवितुमर्हति। प्रायः सर्वेऽपि प्राचीनशिलालेखाः संस्कृत एव विद्यन्ते। भारतीयपुरातत्त्वावापि संस्कृतस्य ज्ञानं नितान्तमावश्यकमस्ति। भारतीयदर्शनग्रन्थास्तु संस्कृतभाषायमेव सन्ति। अतो वक्तुं शक्यते यत् संस्कृतसाहित्यस्य इतिहासो विगतपञ्चसहस्रवर्षेषु अस्माकं पूर्वजानां बौद्धिकमानसिकविकासस्येतिहासोऽस्ति, यत्र प्राचीनभारतस्य नैतिकसामाजिकव्यावहारिकराजनीतिकजीवनं समृद्धिपूर्णं चित्रितमुपलभ्यते। यस्य साहित्यस्य रचना पठनपाठने चिन्तने सम्पूर्णभारतस्य श्रेष्ठविद्वांसः शताब्दिपर्यन्तं निरता अभूवन् अद्यापि च यस्य साहित्यस्य भव्यालोकाप्तये देशविदेशमनीषा लालायिता विलोक्यते, तस्या भाषायाः साहित्यस्य अध्ययनाय प्रत्येकं भारतीयानां हृदयेषु जिज्ञासावश्यमेव समुत्पद्येत।

संस्कृतविद्यानां व्यवस्थितसम्प्रेषणार्थं वाराणस्यां प्रथमसंस्कृतविश्वविद्यालयस्य संस्थापना कृता। किन्तु प्रयासोऽयमधिकतरं संस्कृतशिक्षणक्षेत्र एव सीमितोऽभूत् तथा अनेन संस्कृतप्रचारस्य आवश्यकतानां यथोचितं पूर्तिर्नाभवत्। अधुना भारतीयसंस्कृतेः अध्ययनाय प्राचीनभाषासाहित्यसंरक्षणदिशि नवीनचेतनाभ्युदयो जातो वर्तते। फलस्वरूपम् उत्तरप्रदेशसंस्कृतसंस्थानस्य संस्थापना शासकीयादेशसंख्यया 10491/4-7(1) 76 दिनाङ्कः 31/12/76 द्वारा संस्कृतपालिप्राकृतभाषाणां तासां साहित्यस्य समुचितसंरक्षणणाय प्रोत्साहनाय विकासाय च दिसम्बरमासस्य एकत्रिंशद्दिनाङ्के षट्सप्तत्युत्तरैकोनविंशतितमे ख्रिष्टाब्दे कृता। पूर्वमस्य संस्थानस्य नाम उत्तरप्रदेशसंस्कृत-अकादमी आसीत् सम्प्रति संस्थानस्य कार्यालयः लखनऊनगरे नयाहैदराबादे रायबिहारीलालमार्गे गिरिधरभवने संस्थितोऽस्ति।